SHIVA SAMKALPAM STOTRAM

 SHIVA SAMKALPAM STOTRAM

In bharath culture and technology before doing any work there is done a shiva sangkalpa of what is to be done. Creating it in imagination before doing it in actual reality. It is done after the opening invocations.

After this one can do what is his auspicious desire which results in well-being of this life and also helps in well-being of others.



यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति।

दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥1


येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः।

यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥2


यत्प्रज्ञानमुत चेतो धृतिश्च यज्जोतिरन्तरमृतं प्रजासु।

यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥3


येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम्।

येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥4


यस्मिन्नृचः साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः।

यस्मिश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥5


सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव।

हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥6

Comments

Popular posts from this blog

GANAPATHI MANTRAS, New update: 15/02/25

GURU PASHUPATI: DISCIPLE OF NAGARAJ MAHAVATHAR GURU BABAJI

BHOJAN MANTRAS: MOST ESSENTIAL IN CREATING YOUR DESTINY